हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Narasimha Stuti (Shukracharya Krutam) – श्री नृसिंह स्तुतिः (शुक्राचार्य कृतम्)
श्री कृष्ण उवाच ।
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैकवत्सलः ॥ १
शनैश्चरस्तत्र नृसिंहदेव
स्तुतिं चकारामल चित्तवृतिः ।
प्रणम्य साष्टाङ्गमशेषलोक
किरीट नीराजित पादपद्मम् ॥ २ ॥
श्री शनिरुवाच ।
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् ।
कल्याणकारकमशेषनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३ ॥
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४ ॥
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताऽखिलदोषसङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५ ॥
प्रह्लादभक्तवचसा हरिराविरासीत्
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
ऊर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६ ॥
यो नैजभक्तमनलाम्बुधि भूधरोग्र-
-शृङ्गप्रपात विषदन्तसरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७ ॥
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८ ॥
यद्रूपमुग्रमरिमर्दन भावशाली
सञ्चिन्तनेन सकलाभवभीतिहारी । [अघविनाशकारि]
भूत ज्वर ग्रह समुद्भव भीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९ ॥
यस्योत्तमं यश उमापतिमग्रजन्म
शक्रादि दैवत सभासु समस्तगीतम् ।
श्रुत्वैक सर्वशमलप्रशमेकदक्षं [शक्त्यैव]
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १० ॥
श्रीकृष्ण उवाच ।
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्म वृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११ ॥
श्रीनृसिंह उवाच ।
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोक हितावहम् ॥ १२ ॥
श्री शनिरुवाच ।
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३ ॥
मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च ।
सर्वान् कामन् पूरयेथाः तेषां त्वं लोकभावन ॥ १४ ॥
श्री नृसिंह उवाच ।
तथैवास्तु शनेऽहं वै रक्षो भुवनसंस्थितः ।
भक्त कामान् पूरयिष्ये त्वं ममैकं वचः शृणु ॥ १५ ॥
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६ ॥
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टो जयेति मुनयोवदन् ॥ १७ ॥
श्री कृष्ण उवाच ।
इदं शनैश्चरस्याथ नृसिंह देव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८ ॥
इति श्री भविष्योत्तरपुराणे श्री शनैश्चर कृत श्री नृसिंह स्तुतिः ।
शुक्र उवाच ।
नमामि देवं विश्वेशं वामनं विष्णुरूपिणम् ।
बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥ १ ॥
धीरं शूरं महादेवं शङ्खचक्रगदाधरम् ।
विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥ २ ॥
सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् ।
अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥ ३ ॥
सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा ।
पूजितं च हृषीकेशं तं नमामि जगद्गुरुम् ॥ ४ ॥
हृदि सङ्कल्प्य यद्रूपं ध्यायन्ति यतयः सदा ।
ज्योतीरूपमनौपम्यं नरसिंहं नमाम्यहम् ॥ ५ ॥
न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः ।
यस्यावताररूपाणि समर्चन्ति नमामि तम् ॥ ६ ॥
एतत् समस्तं येनादौ सृष्टं दुष्टवधात्पुनः ।
त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥ ७ ॥
भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः ।
तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥ ८ ॥
दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः ।
तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥ ९ ॥
इति श्रीनरसिंहपुराणे पञ्चपञ्चाशोऽध्याये शुक्राचार्य कृत श्री नरसिंह स्तुतिः ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.